शनिवार, 20 अगस्त 2016

महाकाल शनि मृत्युंजय स्तोत्

महाकाल शनि मृत्युंजय स्तोत्

विनियोगः-
ॐ अस्य श्री महाकाल शनि मृत्युञ्जय स्तोत्र मन्त्रस्य पिप्लाद ऋषिरनुष्टुप्छन्दो महाकाल शनिर्देवता शं बीजं मायसी शक्तिः काल पुरुषायेति कीलकं मम अकाल अपमृत्यु निवारणार्थे पाठे विनियोगः।
श्री गणेशाय नमः।

ॐ महाकाल शनि मृत्युंजयाय नमः।
नीलाद्रीशोभाञ्चितदिव्यमूर्तिः खड्गो त्रिदण्डी शरचापहस्तः।
शम्भुर्महाकालशनिः पुरारिर्जयत्यशेषासुरनाशकारी ॥1
मेरुपृष्ठे समासीनं सामरस्ये स्थितं शिवम्‌ ।
प्रणम्य शिरसा गौरी पृच्छतिस्म जगद्धितम्‌ ॥2

॥पार्वत्युवाच॥

भगवन्‌ ! देवदेवेश ! भक्तानुग्रहकारक ! ।
अल्पमृत्युविनाशाय यत्त्वया पूर्व सूचितम्‌ ॥3॥
तदेवत्वं महाबाहो ! लोकानां हितकारकम्‌ ।
तव मूर्ति प्रभेदस्य महाकालस्य साम्प्रतम्‌ ॥4
शनेर्मृत्युञ्जयस्तोत्रं ब्रूहि मे नेत्रजन्मनः ।
अकाल मृत्युहरणमपमृत्यु निवारणम्‌ ॥5
शनिमन्त्रप्रभेदा ये तैर्युक्तं यत्स्तवं शुभम्‌ ।
प्रतिनाम चथुर्यन्तं नमोन्तं मनुनायुतम्‌ ॥6

॥श्रीशंकर उवाच॥

नित्ये प्रियतमे गौरि सर्वलोक-हितेरते ।
गुह्याद्गुह्यतमं दिव्यं सर्वलोकोपकारकम्‌ ॥7
शनिमृत्युञ्जयस्तोत्रं प्रवक्ष्यामि तवऽधुना ।
सर्वमंगलमांगल्यं सर्वशत्रु विमर्दनम्‌ ॥8
सर्वरोगप्रशमनं सर्वापद्विनिवारणम्‌ ।
शरीरारोग्यकरणमायुवर्ृिद्धकरं नृणाम्‌ ॥9
यदि भक्तासि मे गौरी गोपनीयं प्रयत्नतः ।
गोपितं सर्वतन्त्रेषु तच्छ्रणुष्व महेश्वरी ! ॥10
ऋषिन्यासं करन्यासं देहन्यासं समाचरेत्‌ ।
महोग्रं मूर्घ्नि विन्यस्य मुखे वैवस्वतं न्यसेत्‌ ॥11
गले तु विन्यसेन्मन्दं बाह्वोर्महाग्रहं न्यसेत्‌ ।
हृदि न्यसेन्महाकालं गुह्ये कृशतनुं न्यसेत्‌ ॥12
जान्वोम्तूडुचरं न्यस्य पादयोस्तु शनैश्चरम्।
एवं न्यासविधि कृत्वा पश्चात्‌ कालात्मनः शनेः ॥13
न्यासं ध्यानं प्रवक्ष्यामि तनौ श्यार्वा पठेन्नरः ।
कल्पादियुगभेदांश्च करांगन्यासरुपिणः ॥14
कालात्मनो न्यसेद् गात्रे मृत्युञ्जय ! नमोऽस्तु ते ।
मन्वन्तराणि सर्वाणि महाकालस्वरुपिणः ॥15
भावयेत्प्रति प्रत्यंगे महाकालाय ते नमः ।
भावयेत्प्रभवाद्यब्दान्‌ शीर्षे कालजिते नमः ॥16
नमस्ते नित्यसेव्याय विन्यसेदयने भ्रुवोः ।
सौरये च नमस्तेऽतु गण्डयोर्विन्यसेदृतून्‌ ॥17
श्रावणं भावयेदक्ष्णोर्नमः कृष्णनिभाय च ।
महोग्राय नमो भार्दं तथा श्रवणयोर्न्यसेत्‌ ॥18
नमो वै दुर्निरीक्ष्याय चाश्विनं विन्यसेन्मुखे ।
नमो नीलमयूखाय ग्रीवायां कार्तिकं न्यसेत्‌ ॥19
मार्गशीर्ष न्यसेद्-बाह्वोर्महारौद्राय ते नमः ।
ऊर्द्वलोक-निवासाय पौषं तु हृदये न्यसेत्‌ ॥20

नमः कालप्रबोधाय माघं वै चोदरेन्यसेत्‌ ।

मन्दगाय नमो मेढ्रे न्यसेर्द्वफाल्गुनं तथा ॥21
ऊर्वोर्न्यसेच्चैत्रमासं नमः शिवोस्भवाय च ।
वैशाखं विन्यसेज्जान्वोर्नमः संवर्त्तकाय च ॥22
जंघयोर्भावयेज्ज्येष्ठं भैरवाय नमस्तथा ।
आषाढ़ं पाद्योश्चैव शनये च नमस्तथा ॥23
कृष्णपक्षं च क्रूराय नमः आपादमस्तके ।
न्यसेदाशीर्षपादान्ते शुक्लपक्षं ग्रहाय च ॥24
नयसेन्मूलं पादयोश्च ग्रहाय शनये नमः ।
नमः सर्वजिते चैव तोयं सर्वांगुलौ न्यसेत्‌ ॥25
न्यसेद्-गुल्फ-द्वये विश्वं नमः शुष्कतराय च ।
विष्णुभं भावयेज्जंघोभये शिष्टतमाय ते ॥26
जानुद्वये धनिष्ठां च न्यसेत्‌ कृष्णरुचे नमः ।
ऊरुद्वये वारुर्णांन्यसेत्कालभृते नमः ॥27
पूर्वभाद्रं न्यसेन्मेढ्रे जटाजूटधराय च ।
पृष्ठउत्तरभाद्रं च करालाय नमस्तथा ॥28
रेवतीं च न्यसेन्नाभो नमो मन्दचराय च ।
गर्भदेशे न्यसेद्दस्त्रं नमः श्यामतराय च ॥29
नमो भोगिस्त्रजे नित्यं यमं स्तनयुगे न्यसेत्‌ ।
न्येसत्कृत्तिकां हृदये नमस्तैलप्रियाय च ॥30
रोहिणीं भावयेद्धस्ते नमस्ते खड्गधारीणे ।
मृगं न्येसतद्वाम हस्ते त्रिदण्डोल्लसिताय च ॥31
दक्षोर्द्ध्व भावयेद्रौद्रं नमो वै बाणधारिणे ।
पुनर्वसुमूर्द्ध्व नमो वै चापधारिणे ॥32
तिष्यं न्यसेद्दक्षबाहौ नमस्ते हर मन्यवे ।
सार्पं न्यसेद्वामबाहौ चोग्रचापाय ते नमः ॥33
मघां विभावयेत्कण्ठे नमस्ते भस्मधारिणे ।
मुखे न्यसेद्-भगर्क्ष च नमः क्रूरग्रहाय च ॥34
भावयेद्दक्षनासायामर्यमाणश्व योगिने ।
भावयेद्वामनासायां हस्तर्क्षं धारिणे नमः ॥35
त्वाष्ट्रं न्यसेद्दक्षकर्णे कृसरान्न प्रियाय ते ।
स्वातीं न्येसद्वामकर्णे नमो बृह्ममयाय ते ॥36
विशाखां च दक्षनेत्रे नमस्ते ज्ञानदृष्टये ।
विष्कुम्भं भावयेच्छीर्षेसन्धौ कालाय ते नमः ॥37
प्रीतियोगं भ्रुवोः सन्धौ महामन्दं ! नमोऽस्तु ते ।
नेत्रयोः सन्धावायुष्मद्योगं भीष्माय ते नमः ॥38
सौभाग्यं भावयेन्नासासन्धौ फलाशनाय च ।
शोभनं भावयेत्कर्णे सन्धौ पिण्यात्मने नमः ॥39
नमः कृष्णयातिगण्डं हनुसन्धौ विभावयेत्‌ ।
नमो निर्मांसदेहाय सुकर्माणं शिरोधरे ॥40
धृतिं न्यसेद्दक्षवाहौ पृष्ठे छायासुताय च ।
तन्मूलसन्धौ शूलं च न्यसेदुग्राय ते नमः ॥41
तत्कूर्परे न्यसेदगण्डे नित्यानन्दाय ते नमः ।
वृद्धिं तन्मणिबन्धे च कालज्ञाय नमो न्यसेत्‌ ॥42
ध्रुवं तद्ङ्गुली-मूलसन्धौ कृष्णाय ते नमः ।
व्याघातं भावयेद्वामबाहुपृष्ठे कृशाय च ॥43
हर्षणं तन्मूलसन्धौ भुतसन्तापिने नमः ।
तत्कूर्परे न्यसेद्वज्रं सानन्दाय नमोऽस्तु ते ॥44
सिद्धिं तन्मणिबन्धे च न्यसेत्‌ कालाग्नये नमः ।
व्यतीपातं कराग्रेषु न्यसेत्कालकृते नमः ॥45
वरीयांसं दक्षपार्श्वसन्धौ कालात्मने नमः ।
परिघं भावयेद्वामपार्श्वसन्धौ नमोऽस्तु ते ॥46
न्यसेद्दक्षोरुसन्धौ च शिवं वै कालसाक्षिणे ।
तज्जानौ भावयेत्सिद्धिं महादेहाय ते नमः ॥47
साध्यं न्यसेच्च तद्-गुल्फसन्धौ घोराय ते नमः ।
न्यसेत्तदंगुलीसन्धौ शुभं रौद्राय ते नमः ॥48
न्यसेद्वामारुसन्धौ च शुक्लकालविदे नमः ।
ब्रह्मयोगं च तज्जानो न्यसेत्सद्योगिने नमः ॥49
ऐन्द्रं तद्-गुल्फसन्धौ च योगाऽधीशाय ते नमः ।
न्यसेत्तदंगुलीसन्धौ नमो भव्याय वैधृतिम्‌ ॥50
चर्मणि बवकरणं भावयेद्यज्वने नमः ।
बालवं भावयेद्रक्ते संहारक ! नमोऽस्तु ते ॥51
कौलवं भावयेदस्थ्नि नमस्ते सर्वभक्षिणे ।
तैत्तिलं भावयेन्मसि आममांसप्रियाय ते ॥52
गरं न्यसेद्वपायां च सर्वग्रासाय ते नमः ।
न्यसेद्वणिजं मज्जायां सर्वान्तक ! नमोऽस्तु ते ॥53
विर्येविभावयेद्विष्टिं नमो मन्यूग्रतेजसे ।
रुद्रमित्र ! पितृवसुवारीण्येतांश्च पञ्च च ॥54
मुहूर्तांश्च दक्षपादनखेषु भावयेन्नमः ।
खगेशाय च खस्थाय खेचराय स्वरुपिणे ॥55
पुरुहूतशतमखे विश्ववेधो-विधूंस्तथा ।
मुहूर्तांश्च वामपादनखेषु भावयेन्नमः ॥56
सत्यव्रताय सत्याय नित्यसत्याय ते नमः ।
सिद्धेश्वर ! नमस्तुभ्यं योगेश्वर ! नमोऽस्तु ते ॥57
वह्निनक्तंचरांश्चैव वरुणार्यमयोनकान्‌ ।
मुहूर्तांश्च दक्षहस्तनखेषु भावयेन्नमः ॥58
लग्नोदयाय दीर्घाय मार्गिणे दक्षदृष्टये ।
वक्राय चातिक्रूराय नमस्ते वामदृष्टये ॥59
वामहस्तनखेष्वन्त्यवर्णेशाय नमोऽस्तु ते ।
गिरिशाहिर्बुध्न्यपूषाजपष्द्दस्त्रांश्च भावयेत्‌ ॥60
राशिभोक्त्रे राशिगाय राशिभ्रमणकारिणे ।
राशिनाथाय राशीनां फलदात्रे नमोऽस्तु ते ॥61
यमाग्नि-चन्द्रादितिजविधातृंश्च विभावयेत्‌ ।
ऊर्द्ध्व-हस्त-दक्षनखेष्वत्यकालाय ते नमः ॥62
तुलोच्चस्थाय सौम्याय नक्रकुम्भगृहाय च ।
समीरत्वष्टजीवांश्च विष्णु तिग्म द्युतीन्नयसेत्‌ ॥63
ऊर्ध्व-वामहस्त-नखेष्वन्यग्रह निवारिणे ।
तुष्टाय च वरिष्ठाय नमो राहुसखाय च ॥64
रविवारं ललाटे च न्यसेद्-भीमदृशे नमः ।
सोमवारं न्यसेदास्ये नमो मृतप्रियाय च ॥65
भौमवारं न्यसेत्स्वान्ते नमो ब्रह्म-स्वरुपिणे ।
मेढ्रं न्यसेत्सौम्यवारं नमो जीव-स्वरुपिणे ॥66
वृषणे गुरुवारं च नमो मन्त्र-स्वरुपिणे ।
भृगुवारं मलद्वारे नमः प्रलयकारिणे ॥67
पादयोः शनिवारं च निर्मांसाय नमोऽस्तु ते ।
घटिका न्यसेत्केशेषु नमस्ते सूक्ष्मरुपिणे ॥68
कालरुपिन्नमस्तेऽस्तु सर्वपापप्रणाशकः !।
त्रिपुरस्य वधार्थांय शम्भुजाताय ते नमः ॥69
नमः कालशरीराय कालनुन्नाय ते नमः ।
कालहेतो ! नमस्तुभ्यं कालनन्दाय वै नमः ॥70
अखण्डदण्डमानाय त्वनाद्यन्ताय वै नमः ।
कालदेवाय कालाय कालकालाय ते नमः ॥71
निमेषादिमहाकल्पकालरुपं च भैरवम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥72
दातारं सर्वभव्यानां भक्तानामभयंकरम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥73
कर्त्तारं सर्वदुःखानां दुष्टानां भयवर्धनम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥74
हर्त्तारं ग्रहजातानां फलानामघकारिणाम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥75
सर्वेषामेव भूतानां सुखदं शान्तमव्ययम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥76
कारणं सुखदुःखानां भावाऽभाव-स्वरुपिणम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥77
अकाल-मृत्यु-हरणऽमपमृत्यु निवारणम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥78
कालरुपेण संसार भक्षयन्तं महाग्रहम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥79
दुर्निरीक्ष्यं स्थूलरोमं भीषणं दीर्घ-लोचनम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥80
ग्रहाणां ग्रहभूतं च सर्वग्रह-निवारणम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥81
कालस्य वशगाः सर्वे न कालः कस्यचिद्वशः ।
तस्मात्त्वां कालपुरुषं प्रणतोऽस्मि शनैश्चरम्‌ ॥82
कालदेव जगत्सर्वं काल एव विलीयते ।
कालरुपं स्वयं शम्भुः कालात्मा ग्रहदेवता ॥83
चण्डीशो रुद्रडाकिन्याक्रान्तश्चण्डीश उच्यते ।
विद्युदाकलितो नद्यां समारुढो रसाधिपः ॥84
चण्डीशः शुकसंयुक्तो जिह्वया ललितः पुनः ।
क्षतजस्तामसी शोभी स्थिरात्मा विद्युता युतः ॥85
नमोऽन्तो मनुरित्येष शनितुष्टिकरः शिवे ।
आद्यन्तेऽष्टोत्तरशतं मनुमेनं जपेन्नरः ॥86
यः पठेच्छ्रणुयाद्वापि ध्यात्त्वा सम्पूज्य भक्तितः ।
त्रस्य मृत्योर्भयं नैव शतवर्षावधिप्रिये !॥87
ज्वराः सर्वे विनश्यन्ति दद्रु-विस्फोटकच्छुकाः ।
दिवा सौरिं स्मरेत्‌ रात्रौ महाकालं यजन्‌ पठेत ॥88
जन्मर्क्षे च यदा सौरिर्जपेदेतत्सहस्त्रकम्‌ ।
वेधगे वामवेधे वा जपेदर्द्धसहस्त्रकम्‌ ॥89
द्वितीये द्वादशे मन्दे तनौ वा चाष्टमेऽपि वा ।
तत्तद्राशौ भवेद्यावत्‌ पठेत्तावद्दिनावधि ॥90
चतुर्थे दशमे वाऽपि सप्तमे नवपञ्चमे ।
गोचरे जन्मलग्नेशे दशास्वन्तर्दशासु च ॥91
गुरुलाघवज्ञानेन पठेदावृत्तिसंख्यया ।
शतमेकं त्रयं वाथ शतयुग्मं कदाचन ॥92
आपदस्तस्य नश्यन्ति पापानि च जयं भवेत्‌ ।
महाकालालये पीठे ह्यथवा जलसन्निधौ ॥93
पुण्यक्षेत्रेऽश्वत्थमूले तैलकुम्भाग्रतो गृहे ।
नियमेनैकभक्तेन ब्रह्मचर्येण मौनिना ॥94
श्रोतव्यं पठितव्यं च साधकानां सुखावहम्‌ ।
परं स्वस्त्ययनं पुण्यं स्तोत्रं मृत्युञ्जयाभिधम्‌ ॥95
कालक्रमेण कथितं न्यासक्रम समन्वितम्‌ ।
प्रातःकाले शुचिर्भूत्वा पूजायां च निशामुखे ॥96
पठतां नैव दुष्टेभ्यो व्याघ्रसर्पादितो भयम्‌ ।
नाग्नितो न जलाद्वायोर्देशे देशान्तरेऽथवा ॥97
नाऽकाले मरणं तेषां नाऽपमृत्युभयं भवेत्‌ ।
आयुर्वर्षशतं साग्रं भवन्ति चिरजीविनः ॥98
नाऽतः परतरं स्तोत्रं शनितुष्टिकरं महत्‌ ।
शान्तिकं शीघ्रफलदं स्तोत्रमेतन्मयोदितम्‌ ॥99
तस्मात्सर्वप्रयत्नेन यदीच्छेदात्मनो हितम्‌ ।
कथनीयं महादेवि ! नैवाभक्तस्य कस्यचित्‌ ॥100

॥ इति मार्तण्ड-भैरव-तन्त्रे महाकाल-शनि-मृत्युञ्जय-स्तोत्रं सम्पूर्णम्‌ ॥

**************************************************
इस पोस्ट की पूजा साधना विधि जानने के लिए हमसे संपर्क करे
**************************************************
||मेरी भक्ति गुरु की शक्ति,फुरो मंत्र ईश्वरो वाँचा||
।।राहुलनाथ ।।
साधक,ज्योतिष,वास्तु ,एवं आध्यात्मिक लेखक
फेसबुक पेज:-https://m.facebook.comyogirahulnathosgy/
भिलाई,छत्तीसगढ़+917489716795,+919827374074(whatsapp)
*************************************************
चेतावनी-हमारे हर लेख का उद्देश्य केवल प्रस्तुत विषय से संबंधित जानकारी प्रदान करना है लेख को पढ़कर कोई भी प्रयोग बिना मार्ग दर्शन के न करे ।हमारा उद्देश्य केवल विषय से परिचित कराना है। किसी गंभीर रोग अथवा उसके निदान की दशा में विशेषज्ञ से परामर्श ले। साधको को चेतावनी दी जाती है की वे बिना गुरु के निर्देशन के साधनाए ना करे। अन्यथा प्राण हानि भी संभव है। यह केवल सुचना ही नहीं चेतावनी भी है।बिना लेखक की लिखितअनुमति के लेख के किसी भी अंश का कॉपी-पेस्ट ,या कही भी प्रकाषित करना वर्जित है।न्यायलय क्षेत्र दुर्ग छत्तीसगढ़
(©कॉपी राइट एक्ट 1957)
*************************************************
||जयश्री महाकाल ।।

महाकाल स्तोत्रं एवं स्तुति

महाकाल स्तोत्रं

ॐ महाकाल महाकाय महाकाल जगत्पते 
महाकाल महायोगिन महाकाल नमोस्तुते 
महाकाल महादेव महाकाल महा प्रभो 
महाकाल महारुद्र महाकाल नमोस्तुते
महाकाल महाज्ञान महाकाल तमोपहन
महाकाल महाकाल महाकाल नमोस्तुते 
भवाय च नमस्तुभ्यं शर्वाय च नमो नमः 
रुद्राय च नमस्तुभ्यं पशुना पतये नमः 
उग्राय च नमस्तुभ्यं महादेवाय वै  नमः 
भीमाय च नमस्तुभ्यं मिशानाया नमो नमः 
ईश्वराय नमस्तुभ्यं तत्पुरुषाय वै नमः 
सघोजात नमस्तुभ्यं शुक्ल वर्ण नमो नमः 
अधः काल अग्नि रुद्राय रूद्र रूप आय वै नमः 
स्थितुपति लयानाम च हेतु रूपआय वै नमः 
परमेश्वर रूप स्तवं नील कंठ नमोस्तुते 
पवनाय नमतुभ्यम हुताशन नमोस्तुते 
सोम रूप नमस्तुभ्यं सूर्य रूप नमोस्तुते 
यजमान नमस्तुभ्यं अकाशाया नमो नमः 
सर्व रूप नमस्तुभ्यं विश्व रूप नमोस्तुते 
ब्रहम रूप नमस्तुभ्यं विष्णु रूप नमोस्तुते 
रूद्र रूप नमस्तुभ्यं महाकाल नमोस्तुते 
स्थावराय नमस्तुभ्यं जंघमाय नमो नमः 
नमः उभय रूपा भ्याम शाश्वताय नमो नमः 
हुं हुंकार नमस्तुभ्यं निष्कलाय नमो  नमः 
सचिदानंद रूपआय महाकालाय ते नमः 
प्रसीद में नमो नित्यं मेघ वर्ण नमोस्तुते 
प्रसीद  में महेशान दिग्वासाया नमो नमः 
ॐ ह्रीं माया - स्वरूपाय सच्चिदानंद तेजसे 
स्वः सम्पूर्ण मन्त्राय सोऽहं हंसाय ते नमः  
फल श्रुति 
इत्येवं देव देवस्य मह्कालासय भैरवी 
कीर्तितम पूजनं सम्यक सधाकानाम सुखावहम

!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!
महाकालस्तुति

नमोsस्तवनन्तरूपाय नीलकण्ठ नमोsस्तु ते।

अविज्ञातस्वरूपाय कैवल्यायामृताय च ।। १ ।।

नान्तं देवा विजाननन्तिं यस्य तस्मै नमो नम: ।

यं न वाच: प्रशंसन्ति नमस्तस्मै चिदात्मने ।। २ ।।

योगिनो यं हृद:कोशे प्रणिधानेन निश्चला: ।

ज्योतीरूपं प्रपश्यन्ति तस्मै श्रीब्रह्मणे नम: ।। ३ ।।

कालात्पराय काले स्वेच्छया पुरुषाय च ।

गुणत्रयस्वरूपाय नम: प्रकृतिरूपिणे ।। ४ ।।

विष्णवे सत्त्वरूपाय रजोरूपाय वेधसे ।

तमोरूपाय रुद्राय स्तिथिसर्गान्तकारिणे ।। ५ ।।

नमो नम: स्वरूपाय पञ्चबुद्धीन्द्रियात्मने ।

क्षित्यादीपञ्चरूपाय नमस्ते विषयात्मने ।। ६ ।।

नमो ब्रह्माण्डरूपाय तदन्तर्वर्तिने नम: । अर्वाचीनपराचीनविश्वरूपाय ते नम: ।। ७ ।।

अचिन्त्यनित्यरूपाय सदसत्पतये नम: ।

नमस्ते भक्तकृपया स्वेच्छाविष्कृत विग्रह ।। ८ ।।

तव नि:श्वसितं वेदास्तव वेदोsखिलं जगत ।

विश्वभूतानि ते पाद: शिरो द्यौ: समवर्तत ।। ९ ।।

नाभ्या आसीदन्तरिक्षं लोमानी च वनस्पति: ।

चन्द्रमा मनसो जातश्चक्षो: सुर्यस्तव प्रभो ।। १० ।।

त्वमेव सर्वं त्वयि देव सर्वं 

सर्वस्तुतिस्तव्य इह त्वमेव ।

ईश त्वया वास्यमिदं हि सर्वं 

नमोsस्तु भूयोsपि नमो नमस्ते ।। ११ ।।

।। इति श्री स्कन्दमहापुराणे ब्रह्मखण्डे महाकालस्तुति: सम्पूर्णा ।।

**************************************************
इस पोस्ट की पूजा साधना विधि जानने के लिए हमसे संपर्क करे
**************************************************
||मेरी भक्ति गुरु की शक्ति,फुरो मंत्र ईश्वरो वाँचा||
।।राहुलनाथ ।।
साधक,ज्योतिष,वास्तु ,एवं आध्यात्मिक लेखक
फेसबुक पेज:-https://m.facebook.comyogirahulnathosgy/
भिलाई,छत्तीसगढ़+917489716795,+919827374074(whatsapp)
*************************************************
चेतावनी-हमारे हर लेख का उद्देश्य केवल प्रस्तुत विषय से संबंधित जानकारी प्रदान करना है लेख को पढ़कर कोई भी प्रयोग बिना मार्ग दर्शन के न करे ।हमारा उद्देश्य केवल विषय से परिचित कराना है। किसी गंभीर रोग अथवा उसके निदान की दशा में विशेषज्ञ से परामर्श ले। साधको को चेतावनी दी जाती है की वे बिना गुरु के निर्देशन के साधनाए ना करे। अन्यथा प्राण हानि भी संभव है। यह केवल सुचना ही नहीं चेतावनी भी है।बिना लेखक की लिखितअनुमति के लेख के किसी भी अंश का कॉपी-पेस्ट ,या कही भी प्रकाषित करना वर्जित है।न्यायलय क्षेत्र दुर्ग छत्तीसगढ़
(©कॉपी राइट एक्ट 1957)
*************************************************
||जयश्री महाकाल ।।

गणपति अथर्वशीर्ष

गणपति अथर्वशीर्ष

।। श्री गणेशाय नम: ।।

(शान्ति-मन्त्र:)

ॐ भद्रं कर्णेभि शृणुयाम देवा:। भद्रं पश्येमाक्षभिर्यजत्रा:।।

स्थिरै रंगै स्तुष्टुवां सहस्तनुभि:। व्यशेम देवहितं यदायु:।1।

ॐ स्वस्ति न इन्द्रो वृद्धश्रवा:। स्वस्ति न: पूषा विश्ववेदा:।

स्वस्ति न स्तार्क्ष्र्यो अरिष्ट नेमि:।। स्वस्ति नो बृहस्पतिर्दधातु।2।

ॐ शांति:। शांति:।। शांति:।।

।अथ अथर्वशीर्षारम्भ: ।

ॐ नमस्ते गणपतये। त्वमेव प्रत्यक्षं तत्त्वमसि।

त्वमेव केवलं कर्ताऽसि। त्वमेव केवलं धर्ताऽसि।

त्वमेव केवलं हर्ताऽसि। त्वमेव सर्वं खल्विदं ब्रह्मासि।

त्वं साक्षादात्माऽसि नित्यम्॥१॥

ऋतं वच्मि । सत्यं वच्मि॥२॥

अव त्वं मां। अव वक्तारं।

अव श्रोतारं। अव दातारं।

अव धातारं। अवानुचानमव शिष्यं।

अव पश्चात्तात्। अव पुरस्तात्। अवोत्तरात्तात्। अव दक्षिणात्तात्।

अव चोर्ध्वात्तात। अवाधरात्तात। सर्वतो मां पाहि पाहि समंतात्॥३॥

त्वं वाङ्मयस्त्वं चिन्मय:। त्वमानंदमयस्त्वं ब्रह्ममय:।

त्वं सच्चिदानंदाद्वितीयोऽसि। त्वं प्रत्यक्षं ब्रह्मासि।

त्वं ज्ञानमयो विज्ञानमयोऽसि॥४॥

सर्वं जगदिदं त्वत्तो जायते। सर्वं जगदिदं तत्त्वस्तिष्ठति।

सर्वं जगदिदं त्वयि लयमेष्यति। सर्वं जगदिदं त्वयि प्रत्येति।

त्वं भूमिरापोऽनलोऽनिलो नभ:।

त्वं चत्वारि वाक्पदानि॥५॥

त्वं गुणत्रयातीत:। त्वमवस्थात्रयातीत:।

त्वं देहत्रयातीत:। त्वं कालत्रयातीत:।

त्वं मुलाधारस्थितोऽसि नित्यं।

त्वं शक्तित्रयात्मक:।

त्वां योगिनो ध्यायंति नित्यं।

त्वं ब्रह्मा

त्वं विष्णुस्तवं रुद्रस्त्वं इंद्रस्त्वं अग्निस्त्वं वायुस्त्वं

सूर्यस्त्वं चंद्रमास्त्वं

ब्रह्मभूर्भुव:स्वरोम्॥६॥

गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरं।

अनुस्वार: परतर:। अर्धेन्दुलसितं।

तारेण ऋध्दं। एतत्तव मनुस्वरूपं।

गकार: पूर्वरुपं। अकारो मध्यमरूपं।

अनुस्वारश्चान्त्यरुपं। बिन्दुरुत्तररुपं।

नाद: संधानं। स हिता संधि:।

सैषा गणेशविद्या:। गणक ऋषि:।

निचृद्वायत्रीच्छंद:। गणपतिर्देवता।

ॐ गं गणपतये नम:॥७॥

एकदंताय विद्महे।

वक्रतुण्डाय धीमहि।

तन्नो दंती प्रचोदयात्॥८॥

एकदंतं चतुर्हस्तं पाशमंकुशधारिणम्।

रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम्।

रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम्।

रक्तगंधानुलिप्तांगं रक्तपुष्पै: सुपुजितम्।

भक्तानुकंपिनं देवं जगत्कारणमच्युतम्।

आविर्भूतं च सृष्टयादौ प्रकृते: पुरुषात्परम्।

एवं ध्यायति यो नित्यं स योगी योगिनां वर:॥९॥

नमो व्रातपतये। नमो गणपतये।

नम: प्रमथपतये। नमस्तेऽस्तु लंबोदरायैकदंताय।

विघ्ननाशिने शिवसुताय।

श्रीवरदमूर्तये नमो नम:॥१०॥

फलश्रुति

एतदथर्वशीर्षं योऽधिते।

स ब्रह्मभूयाय कल्पते।

स सर्वत: सुखममेधते।

स सर्वविघ्नैर्नबाध्यते।

स पञ्चमहापापात्प्रमुच्यते॥

सायमधीयानो दिवसकृतं पापं नाशयति।

प्रातरधीयानो रात्रिकृतं पापं नाशयति।

सायंप्रात: प्रयुंजानो अपापो भवति।

सर्वत्राधीयानोऽपविघ्नो भवति।

धर्मार्थकाममोक्षं च विंदति॥

इदमथर्वशीर्षमशिष्याय न देयम्।

यो यदि मोहाद्दास्यति।

स पापीयान् भवति।

सहस्त्रावर्तनात् यं यं काममधीते

तं तमनेन साधयेत्॥११॥

अनेन गणपतिमभिषिंचति।

स वाग्मी भवति।

चतुर्थ्यामनश्नन् जपति।

स विद्यावान् भवति।

इत्यथर्वणवाक्यं।

ब्रह्माद्यावरणं विद्यात्।

न बिभेति कदाचनेति॥१२॥

यो दूर्वांकुरैर्यजति।

स वैश्रवणोपमो भवति।

यो लार्जैर्यजति स यशोवान् भवति।

स मेधावान् भवति।

यो मोदकसहस्त्रेण यजति।

स वाञ्छितफलमवाप्नोति।

य: साज्यसमिभ्दिर्यजति।

स सर्वं लभते स सर्वं लभते॥१३॥

अष्टौ ब्राह्मणान् समम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति।

सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्ता सिध्दमंत्रो भवति।

महाविघ्नात्प्रमुच्यते।

महादोषात्प्रमुच्यते।

महापापात् प्रमुच्यते।

स सर्वविद्भवति स सर्वविद्भवति।

य एवं वेद इत्युपनिषद्॥१४॥

**************************************************
इस पोस्ट की पूजा साधना विधि जानने के लिए हमसे संपर्क करे
**************************************************
||मेरी भक्ति गुरु की शक्ति,फुरो मंत्र ईश्वरो वाँचा||
।।राहुलनाथ ।।
साधक,ज्योतिष,वास्तु ,एवं आध्यात्मिक लेखक
फेसबुक पेज:-https://m.facebook.comyogirahulnathosgy/
भिलाई,छत्तीसगढ़+917489716795,+919827374074(whatsapp)
*************************************************
चेतावनी-हमारे हर लेख का उद्देश्य केवल प्रस्तुत विषय से संबंधित जानकारी प्रदान करना है लेख को पढ़कर कोई भी प्रयोग बिना मार्ग दर्शन के न करे ।हमारा उद्देश्य केवल विषय से परिचित कराना है। किसी गंभीर रोग अथवा उसके निदान की दशा में विशेषज्ञ से परामर्श ले। साधको को चेतावनी दी जाती है की वे बिना गुरु के निर्देशन के साधनाए ना करे। अन्यथा प्राण हानि भी संभव है। यह केवल सुचना ही नहीं चेतावनी भी है।बिना लेखक की लिखितअनुमति के लेख के किसी भी अंश का कॉपी-पेस्ट ,या कही भी प्रकाषित करना वर्जित है।न्यायलय क्षेत्र दुर्ग छत्तीसगढ़
(©कॉपी राइट एक्ट 1957)
*************************************************
||जयश्री महाकाल ।।