#श्रीनृसिंह_एवं_छिन्नमस्तिका_जयंती_जन्मोत्सव_की_हार्दिक_शुभकामनाएं
#श्रीलक्ष्मीनृसिंह_स्तोत्र
®®®®®®®®®®
श्रीमत् पयॊनिधिनिकॆतन चक्रपाणॆ भॊगीन्द्रभॊगमणिरञ्जितपुण्यमूर्तॆ ।
यॊगीश शाश्वत शरण्य भवाब्धिपॊत
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ १ ॥
ब्रह्मॆन्द्ररुद्रमरुदर्ककिरीटकॊटि- सङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त ।
लक्ष्मीलसत्कुच्सरॊरुहराजहंस
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ २ ॥
संसारघॊरगहनॆ चरतॊ मुरारॆ
मारॊग्रभीकरमृगप्रवरार्दितस्य ।
आर्तस्यमत्सरनिदाघनिपीडितस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ ३ ॥
संसारकूपमतिघॊरमगाधमूलम्
संप्राप्य दुःखशतसर्पसमाकुलस्य ।
दीनस्य दॆव कृपणापदमागतस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ ४ ॥
संसारसागरविशालकरालकाल-
नक्रग्रहग्रसननिग्रह विग्रहस्य ।
व्यग्रस्य रागरसनॊर्मिनिपीडितस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ ५ ॥
संसारवृक्षमघबीजमनन्तकर्म-
शाखाशतं करणपत्रमनङ्गपुष्पम् ।
आरुह्यदुःखफलितं पततॊ दयालॊ
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ ६ ॥संसारसर्पघनवक्त्रभयॊग्रतीव्र-
दंष्ट्राकरालविषदग्द्धविनष्टमूर्तॆः ।
नागारिवाहन सुधाब्धिनिवास शौरॆ
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ ७ ॥संसारदावदहनातुरभीकरॊरु-
ज्वालावलीभिरतिदग्धतनूरुहस्य ।
त्वत्पादपद्मसरसीशरणागतस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ ८ ॥
संसारजालपतितस्य जगन्निवास
सर्वॆन्द्रियार्थबडिशार्थझषॊपमस्य ।
प्रॊत्खण्डितप्रचुरतालुकमस्तकस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ ९ ॥संसारभीकरकरीन्द्रकराभिघात-
निष्पिष्टमर्म वपुषः सकलार्तिनाश । प्राणप्रयाणभवभीतिसमाकुलस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ १० ॥
अन्धस्य मॆ हृतविवॆकमहाधनस्य चॊरैः
प्रभॊ बलिभिरिन्द्रियनामधॆयैः ।
मॊहांधकारकुहरॆ विनिपातितस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ ११ ॥
लक्ष्मीपतॆ कमलनाभ सुरॆश विष्णॊ
वैकुण्ठ कृष्ण मधुसूदन पुष्कराक्ष ।
ब्रह्मण्य कॆशव जनार्दन वासुदॆव दॆवॆश
दॆहि कृपणस्य करावलम्बम् ॥ १२ ॥
यन्माययॊजितवपुः प्रचुरप्रवाह-
मग्नार्थमत्र निवहॊरुकरावलम्बम् ।
लक्ष्मीनृसिंहचरणाब्जमधुव्रतॆन स्तॊत्रं
कृतं सुखकरं भुवि शंकरॆण ॥ १३ ॥
®®®®®®®®®®®®®®®®®
देवकार्य सिध्यर्थं सभस्तंभं समुद् भवम ।
श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥
लक्ष्म्यालिन्गितं वामांगं, भक्ताम्ना वरदायकं ।
श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥
अन्त्रांलादरं शंखं, गदाचक्रयुध धरम् ।
श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥
स्मरणात् सर्व पापघ्नं वरदं मनोवाञ्छितं ।
श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥
सिहंनादेनाहतं, दारिद्र्यं बंद मोचनं ।
श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥
प्रल्हाद वरदं श्रीशं, धनः कोषः परिपुर्तये ।
श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥
क्रूरग्रह पीडा नाशं, कुरुते मंगलं शुभम् ।
श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥
वेदवेदांगं यद्न्येशं, रुद्र ब्रम्हादि वंदितम् ।
श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥
व्याधी दुखं परिहारं, समूल शत्रु निखं दनम् ।
श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥
विद्या विजय दायकं, पुत्र पोत्रादि वर्धनम् ।
श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥
भुक्ति मुक्ति प्रदायकं, सर्व सिद्धिकर नृणां ।
श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥
उर्ग्रं वीरं महाविष्णुं ज्वलन्तम् सर्वतोमुखं ।
नृसिंह भीषणं भद्रं मृत्य मृत्युं नमाम्यहम॥
य: पठेत् इंद् नित्यं संकट मुक्तये ।
अरुणि विजयी नित्यं, धनं शीघ्रं माप्नुयात् ॥
॥ श्री शंकराचार्य विरचित सर्वसिद्धिकर
ऋणमोचन स्तोत्र संपूर्णं ॥
🕉️🙏🏻🚩आदेश-जयश्री माहाँकाल 🚩🙏🏻🕉️
लेखन-सम्पादन-संकलन
☯️राहुलनाथ™ भिलाई 🖋️
📞➕9⃣1⃣9⃣8⃣2⃣7⃣3⃣7⃣4⃣0⃣7⃣4⃣(w)
#चेतावनी:-इस लेख में वर्णित नियम ,सूत्र,व्याख्याए,तथ्य स्वयं के अभ्यास-अनुभव के आधार पर एवं गुरू-साधु-संतों के कथन,ज्योतिष-वास्तु-वैदिक-तांत्रिक-आध्यात्मिक-साबरी ग्रंथो,
मान्यताओं और जानकारियों के आधार पर मात्र शैक्षणिक उद्देश्यों हेतु दी जाती है।हम इनकी पुष्टी नही करते,अतः बिना गुरु के निर्देशन के साधनाए या प्रयोग ना करे। किसी भी विवाद की स्थिति न्यायलय क्षेत्र दुर्ग छत्तीसगढ़,भारत।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें